WORKSHEET-02 CLASS-X
अस्ति देउलाख्यो ग्रामः। तत्र राजसिंहः नाम राजपुत्रः वसति स्म। एकदा केनापि आवश्यककार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता। मार्गे गहनकानने सा एकं व्याघ्रं ददर्श। सा व्याघ्रमागच्छन्तं दृष्ट्वा धार्ष्ट्यात्
पुत्रौ चपेटया प्रहृत्य जगाद -"कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः? अयमेकस्तावद्विभुज्य भुज्यताम्।"
I.
एकपदेन उत्तरत
-
1.
कस्य भार्या बुद्धिमती
आसीत्?
2.
बुद्धिमती कुत्र चलिता?
3.
गहनकानने सा कं
ददर्श?
II.
पूर्णवाक्येन
उत्तरत -
बुद्धिमती कथं
पितुर्गृहं प्रति चलिता?
III.
भाषिककार्यम् -
1.
'वसति स्म' क्रियायाः कर्तृपदं किम्?
2.
'तस्य भार्या' अत्र ‘तस्य’ सर्वनामपदं कस्मै प्रयुक्तम्?
3.
'वने' इत्यस्य किं समानार्थकपदं गद्यांशे प्रयुक्तम्?
Q.2
समानार्थकान् योजयत -
जगाद ददर्श
पत्नी उपेता
अपश्यत् अकथयत्
सहिता भार्या
Q.3
प्रश्ननिर्माणं कुरुत
-
1.
राजपुत्रः वसति
स्म।
2.
बुद्धिमती पितुर्गृहं
प्रति चलिता।
3.
गहनकानने सा
एकं व्याघ्रं ददर्श।
4.
सा पुत्रौ चपेटया
प्रहृत्य जगाद।

July 21, 2020 9:22 am
इनके उत्तर भी भेज दो।